Uma Sundaram

Saturday, August 26, 2006

Soundaryalahiri Script

//आनन्दलहरी //


भुमौस्खलित पादानाम् भूमिरेवा वलम्बनम् /
त्वयी जाता पराधानाम् त्वमेव शरणम् शिवे //

शिव: शक्त्या युक्तो यदि भवति शक्त : प्रभवितुं
न चेदेवं देवो न खलु कुशल: स्पन्दितुमपि/
अतस्त्वाम् आराध्यां हरि-हर-विरिन्चादिभि रपि
प्रणन्तुं स्तोतुं वा कथ-मक्र्त पुण्य: प्रभवति// [१]

तनीयांसुं पांसुं तव चरण पङ्केरुह-भवं
विरिंचि: संचिन्वन् विरचयति लोका-नविकलम् /
वहत्येनं शौरि: कथमपि सहस्रेण शिरसां
हर: संक्षुद् यैनं भजति भसितोधूलन-विधिम्// [२]

अविद्याना-मन्त स्तिमिर-मिहिर द्वीपनगरी
जडानां चैतन्य-स्तबक-मकरन्द श्रुतिझरी /
दरिद्राणां चिन्तमणिगुणनिका जन्मजलधौ
निमग्नानां दंष्ट्रा मुररिपु-वराहस्य भवति// [३]

त्वदन्य: पाणिभया-मभयवरदो दैवतगण:
त्वमेका नैवासि प्रकटित-वरभीत्यभिनया /
भयात् त्रातुं दातुं फलमपि च वांछासमधिकं
शरण्ये लोकानां तव हि चरणावेव निपुणौ // [४]

हरिस्त्वामारध्य प्रणत-जन-सौभाग्य-जननीं
पुरा नारी भूत्वा पुररिपुमपि क्षोभ मनयत् /
स्मरोऽपि त्वां नत्वा रतिनयन-लेह्येन वपुषा
मुनीनामप्यन्त: प्रभवति हि मोहाय महताम् // [५]

धनु: पौष्पं मौर्वी मधुकरमयी पञ्च विशिखा:
वसन्त: सामन्तो मलयमरु-दायोधन-रथ: /
तथाप्येक: सर्वं हिमगिरिसुते कामपि कृपां
अपांगात्ते लब्ध्वा जगदिद-मनङ्गो विजयते // [६]

क्वणत्कांची-दामा करिकलभ कुंभ-स्तन-नता
परिक्षीणा मध्ये परिणत शरच्चन्द्र-वदना /
धनुर्बाणान् पाशं सृ॒णिमपि दधाना करतलै
पुरस्ता दास्तां न: पुरमथितु राहो-पुरुषिका // [७]

सुधासिन्धोर्मध्ये सुरविटपि-वाटी-परिवृते
मणिद्वीपे नीपोपवनवति चिन्तामणि गृहे /
शिवकारे मञ्चे परमशिव-पर्यक्ङ् निलयां
भजन्ति त्वां धन्या: कतिचन चिदानन्द-लहरीम् // [८]

महीं मूलाधारे कमपि मणिपूरे हुतवहं
स्तिथिं स्वधिष्टाने हृदि मरुत-मकाश-मुपरि /
मनोऽपि भ्रूमध्ये सकलमपि भित्वा कुलपथं
सहस्रारे पद्मे सह रहसि पत्या विहरसे // [९]

सुधाधारासारै-श्चरणयुगलान्त-र्विगलितै:
प्रपंचं सिन्ञ्न्ती पुनरपि रसाम्नाय-महस:/
अवाप्य स्वां भूमिं भुजगनिभ-मध्युष्ट-वलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि // [१०]

चतुर्भि: श्रीकण्ठै: शिवयुवतिभि: पञ्चभिपि
प्रभिन्नाभि: शंभोर्नवभिरपि मूलप्रकृतिभि: /
चतुश्चत्वारिंशद्-वसुदल-कलाश्च्-त्रिवलय-
त्रिरेखभि: सार्धं तव शरणकोणा: परिणता: // [११]

त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं
कवीन्द्रा: कल्पन्ते कथमपि विरिञ्चि-प्रभृतय: /
यदालोकौत्सुक्या-दमरललना यान्ति मनसा
तपोभिर्दुष्प्रापामपि गिरिश-सायुज्य-पदवीम् // [१२]

नरं वर्षीयांसं नयनविरसं नर्मसु जडं
तवापांगालोके पतित-मनुधावन्ति शतश: /
गलद्वेणीबन्धा: कुचकलश-विस्त्रिस्त-सिचया
हटात् त्रुट्यत्काञ्यो विगलित-दुकूला युवतय: // [१३]

क्षितौ षट्पञ्चाशद्-द्विसमधिक-पञ्चाश-दुदके
हुतशे द्वाषष्टि-श्चतुरधिक-पञ्चाश-दनिले /
दिवि द्वि: षट् त्रिंशन् मनसि च चतु:षष्टिरिति ये
मयूखा-स्तेषा-मप्युपरि तव पादांबुज-युगम् // [१४]

शरज्ज्योत्स्ना शुद्धां शशियुत-जटाजूट-मकुटां
वर-त्रास-त्राण-स्फटिकघुटिका-पुस्तक-कराम् /
सकृन्न त्वा नत्वा कथमिव सतां सन्निदधते
मधु-क्षीर-द्राक्षा-मधुरिम-धुरीणा: फणितय: // [१५]

कवीन्द्राणां चेत: कमलवन-बालातप-रुचिं
भजन्ते ये सन्त: कतिचिदरुणामेव भवतीम् /
विरिञ्चि-प्रेयस्या-स्तरुणतर-श्रृङ्गर लहरी-
गभीराभि-र्वाग्भि: र्विदधति सतां रञ्जनममी // [१६]

सवित्रीभि-र्वाचां चशि-मणि शिला-भङ्ग रुचिभि-
र्वशिन्यद्याभि-स्त्वां सह जननि संचिन्तयति य: /
स कर्ता काव्यानां भवति महतां भङ्गिरुचिभि-
र्वचोभि-र्वाग्देवी-वदन-कमलामोद मधुरै: // [१७]

तनुच्छायाभिस्ते तरुण-तरणि-श्रीसरणिभि-
र्दिवं सर्वा-मुर्वी-मरुणिमनि मग्नां स्मरति य: /
भवन्त्यस्य त्रस्य-द्वनहरिण-शालीन-नयना:
सहोर्वश्या वश्या: कति कति न गीर्वाण-गणिका: // [१८]

मुखं बिन्दुं कृत्वा कुचयुगमध-स्तस्य तदधो
हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् /
स सद्य: संक्षोभं नयति वनिता इत्यतिलघु
त्रिलोकीमप्याशु भ्रमयति रवीन्दु-स्तनयुगाम् // [१९]

किरन्ती-मङ्गेभ्य: किरण-निकुरुम्बमृतरसं
हृदि त्वा माधत्ते हिमकरशिला-मूर्तिमिव य: /
स सर्पाणां दर्पं शमयति शकुन्तधिप इव
ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया // [२०]

तटिल्लेखा-तन्वीं तपन शशि वै॒श्वानर मयीं
निष्ण्णां षण्णामप्युपरि कमलानां तव कलां /
महापद्मातव्यां मृदित-मलमायेन मनसा
महान्त: पश्यन्तो दधति परमाह्लाद-लहरीम् // [२१]

भवानि त्वं दासे मयि वितर दृष्टिं सकरुणां
इति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति य: /
तदैव त्वं तस्मै दिशसि निजसायुज्य-पदवीं
मुकुन्द-ब्रम्हेन्द्र स्फुट मकुट नीराजितपदाम् // [२२]

त्वया हृत्वा वामं वपु-रपरितृप्तॆन मनसा
शरीरार्धं शम्भो-रपरमपि शङ्के हृतमभूत् /
यदेतत् त्वद्रूपं सकलमरुणाभं त्रिनयनं
कुचाभ्यामानम्रं कुटिल-शशिचूडाल-मकुटम् // [२३]

जगत्सूते धाता हरिरवति रुद्र: क्षपयते
तिरस्कुर्व-न्नेतत् स्वमपि वपु-रीश-स्तिरयति /
सदा पूर्व: सर्वं तदिद मनुगृह्णाति च शिव-
स्तवाज्ञा मलम्ब्य क्षणचलितयो र्भ्रूलतिकयो: // [२४]

त्रयाणां देवानां त्रिगुण-जनितानां तव शिवे
भवेत् पूजा पूजा तव चरणयो-र्या विरचिता /
तथा हि त्वत्पादोद्वहन-मणिपीठस्य निकटे
स्थिता ह्येते-शश्वन्मुकुलित करोत्तंस-मकुटा: // [२५]

विरिञ्चि: पञ्चत्वं व्रजति हरिराप्नोति विरतिं
विनाशं कीनाशो भजति धनदो याति निधनम् /
वितन्द्री माहेन्द्री-विततिरपि संमीलित-दृशा
महासंहारेऽस्मिन् विहरति सति त्वत्पति रसौ // [२६]

जपो जल्प: शिल्पं सकलमपि मुद्राविरचना
गति: प्रादक्षिण्य-क्रमण-मशनाद्या हुति-विधि: /
प्रणाम: संवेश: सुखमखिल-मात्मार्पण-दृशा
सपर्या पर्याय-स्तव भवतु यन्मे विलसितम् // [२७]

सुधामप्यास्वाद्य प्रति-भय-जरमृत्यु-हरिणीं
विपद्यन्ते विश्वे विधि-शतमखाद्या दिविषद: /
करालं यत् क्ष्वेलं कबलितवत: कालकलना
न शम्भोस्तन्मूलं तव जननि ताटङ्क महिमा // [२८]

किरीटं वैरिञ्चं परिहर पुर: कैटभभिद:
कठोरे कोठीरे स्कलसि जहि जंभारि-मकुटम् /
प्रणम्रेष्वेतेषु प्रसभ-मुपयातस्य भवनं
भवस्यभ्युत्थाने तव परिजनोक्ति-र्विजयते // [२९]

स्वदेहोद्भूताभि-र्घृणिभि-रणिमाद्याभि-रभितो
निषेव्ये नित्ये त्वा महमिति सदा भावयति य: /
किमाश्चर्यं तस्य त्रिनयन-समृद्धिं तृणयतो
महासंवर्ताग्नि-र्विरचयति नीराजनविधिं // [३०]

चतु:-षष्टया तन्त्रै: सकल मतिसन्धाय भुवनं
स्थितस्तत्त्त-सिद्धि प्रसव परतन्त्रै: पशुपति: /
पुनस्त्व-न्निर्बन्धा दखिल-पुरुषार्थैक घटना-
स्वतन्त्रं ते तन्त्रं क्षितितल मवातीतर-दिदम् // [३१]

शिव: शक्ति: काम: क्षिति-रथ रवि: शीतकिरण:
स्मरो हंस: शक्र-स्तदनु च परा-मार-हरय: /
अमी हृल्लेखाभि-स्तिसृभि-रवसानेषु घटिता
भजन्ते वर्णास्ते तव जननि नामावयवताम् // [३२]

स्मरं योनिं लक्ष्मीं त्रितय-मिद-मादौ तव मनो
र्निधायैके नित्ये निरवधि-महाभोग-रसिका: /
भजन्ति त्वां चिन्तामणि-गुणनिबद्धाक्ष-वलया:
शिवाग्नौ जुह्वन्त: सुरभिघृत-धाराहुति-शतै // [३३]

शरीरं त्वं शंभो: शशि-मिहिर-वक्षोरुह-युगं
तवात्मानं मन्ये भगवति नवात्मान-मनघम् /
अत: शेष: शेषीत्यय-मुभय-साधारणतया
स्थित: संबन्धो वां समरस-परानन्द-परयो: // [३४]

मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथि-रसि
त्वमाप-स्त्वं भूमि-स्त्वयि परिणतायां न हि परम् /
त्वमेव स्वात्मानं परिण्मयितुं विश्व वपुषा
चिदानन्दाकारं शिवयुवति भावेन बिभृषे // [३५]

तवाज्ञचक्रस्थं तपन-शशि कोटि-द्युतिधरं
परं शंभु वन्दे परिमिलित-पार्श्वं परचिता /
यमाराध्यन् भक्त्या रवि शशि शुचीना-मविषये
निरालोके ऽलोके निवसति हि भालोक-भुवने // [३६]

विशुद्धौ ते शुद्धस्फतिक विशदं व्योम-जनकं
शिवं सेवे देवीमपि शिवसमान-व्यवसिताम् /
ययो: कान्त्या यान्त्या: शशिकिरण्-सारूप्यसरणे
विधूतान्त-र्ध्वान्ता विलसति चकोरीव जगती // [३७]

समुन्मीलत् संवित्कमल-मकरन्दैक-रसिकं
भजे हंसद्वन्द्वं किमपि महतां मानसचरं /
यदालापा-दष्टादश-गुणित-विद्यापरिणति:
यदादत्ते दोषाद् गुण-मखिल-मद्भ्य: पय इव // [३८]

तव स्वाधिष्ठाने हुतवह-मधिष्ठाय निरतं
तमीडे संवर्तं जननि महतीं तां च समयाम् /
यदालोके लोकान् दहति महसि क्रोध-कलिते
दयार्द्रा या दृष्टि: शिशिर-मुपचारं रचयति // [३९]

तटित्वन्तं शक्त्या तिमिर-परिपन्थि-स्फुरणया
स्फुर-न्ना नरत्नाभरण-परिणद्धेन्द्र-धनुषम् /
तव श्यामं मेघं कमपि मणिपूरैक-शरणं
निषेवे वर्षन्तं-हरमिहिर-तप्तं त्रिभुवनम् // [४०]

तवाधारे मूले सह समयया लास्यपरया
नवात्मान मन्ये नवरस-महाताण्डव-नटम् /
उभाभ्या मेताभ्या-मुदय-विधि मुद्दिश्य दयया
सनाथाभ्यां जज्ञे जनकजननीमत् जगदिदम् // [४१]

// द्वितीयो भाग: // //सौन्दर्यलहरी //


गतै-र्माणिक्यत्वं गगनमणिभि : सान्द्रघटितं
किरीटं ते हैमं हिमगिरिसुते कीतयति य: //
स नीडेयच्छाया-च्छुरण-शकलं चन्द्र-शकलं
धनु: शौनासीरं किमिति न निबध्नाति धिषणां // [४२]

धुनोतु ध्वान्तं न-स्तुलित-दलितेन्दीवर-वनं
घनस्निग्ध-श्लक्ष्णं चिकुर निकुरुंबं तव शिवे /
यदीयं सौरभ्यं सहज-मुपलब्धुं सुमनसो
वसन्त्यस्मिन् मन्ये बलमथन वाटी-विटपिनाम् // [४३]

तनोतु क्षेमं न-स्तव वदनसौन्दर्यलहरी
परीवाहस्रोत:-सरणिरिव सीमन्तसरणि:/
वहन्ती- सिन्दूरं प्रबलकबरी-भार-तिमिर
द्विषां बृन्दै-र्वन्दीकृतमेव नवीनार्क केरणम् // [४४]

अरालै स्वाभाव्या-दलिकलभ-सश्रीभि रलकै:
परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् /
दरस्मेरे यस्मिन् दशनरुचि किञ्जल्क-रुचिरे
सुगन्धौ माद्यन्ति स्मरदहन चक्षु-र्मधुलिह: // [४५]

ललाटं लावण्य द्युति विमल-माभाति तव यत्
द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् /
विपर्यास-न्यासा दुभयमपि संभूय च मिथ:
सुधालेपस्यूति: परिणमति राका-हिमकर: // [४६]


भ्रुवौ भुग्ने किंचिद्भुवन-भय-भङ्गव्यसनिनि
त्वदीये नेत्राभ्यां मधुकर-रुचिभ्यां धृतगुणम् /
धनु र्मन्ये सव्येतरकर गृहीतं रतिपते:
प्रकोष्टे मुष्टौ च स्थगयते निगूढान्तर-मुमे // [४७]

अह: सूते सव्य तव नयन-मर्कात्मकतया
त्रियामां वामं ते सृजति रजनीनायकतया /
तृतीया ते दृष्टि-र्दरदलित-हेमाम्बुज-रुचि:
समाधत्ते सन्ध्यां दिवसर्-निशयो-रन्तरचरीम् // [४८]

विशाला कल्याणी स्फुतरुचि-रयोध्या कुवलयै:
कृपाधाराधारा किमपि मधुराऽऽभोगवतिका /
अवन्ती दृष्टिस्ते बहुनगर-विस्तार-विजया
ध्रुवं तत्तन्नाम-व्यवहरण-योग्याविजयते // [४९]

कवीनां सन्दर्भ-स्तबक-मकरन्दैक-रसिकं
कटाक्ष-व्याक्षेप-भ्रमरकलभौ कर्णयुगलम् /
अमुञ्च्न्तौ दृष्ट्वा तव नवरसास्वाद-तरलौ
असूया-संसर्गा-दलिकनयनं किञ्चिदरुणम् // [५०]

शिवे शङ्गारार्द्रा तदितरजने कुत्सनपरा
सरोषा गङ्गायां गिरिशचरिते विस्मयवती /
हराहिभ्यो भीता सरसिरुह सौभाग्य-जननी
सखीषु स्मेरा ते मयि जननि दृष्टि: सकरुणा // [५१]

गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती
पुरां भेत्तु-श्चित्तप्रशम-रस-विद्रावण फले /
इमे नेत्रे गोत्राधरपति-कुलोत्तंस-कलिके
तवाकर्णाकृष्ट स्मरशर-विलासं कलयत:// [५२]

विभक्त-त्रैवर्ण्यं व्यतिकरित-लीलाञ्जनतया
विभाति त्वन्नेत्र त्रितय मिद-मीशानदयिते /
पुन: स्रष्टुं देवान् द्रुहिण हरि-रुद्रानुपरतान्
रज: सत्वं वेभ्रत् तम इति गुणानां त्रयमिव // [५३]

पवित्रीकर्तुं न: पशुपति-पराधीन-हृदये
दयामित्रै र्नेत्रै-ररुण-धवल-श्याम रुचिभि: /
नद: शोणो गङ्गा तपनतनयेति ध्रुवमुम्
त्रयाणां तीर्थाना-मुपनयसि संभेद-मनघम् // [५४]

निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगति
तवेत्याहु: सन्तो धरणिधर-राजन्यतनये /
त्वदुन्मेषाज्जातं जगदिद-मशेषं प्रलयत:
परेत्रातुं शंङ्के परिहृत-निमेषा-स्तव दृश: // [५५]

तवापर्णे कर्णे जपनयन पैशुन्य चकिता
निलीयन्ते तोये नियत मनिमेषा: शफरिका: /
इयं च श्री-र्बद्धच्छद—पुटकवाटं कुवलयं
जहाति प्रत्यूषे निशि च विघतय्य प्रविशति// [५६]

दृशा द्राघीयस्या दरदलित नीलोत्पल रुचा
दवीयांसं दीनं स्नपा कृपया मामपि शिवे /
अनेनायं धन्यो भवति न च ते हानिरियता
वने वा हर्म्ये वा समकर निपातो हिमकर : // [५७]

अरालं ते पालीयुगल-मगराजन्यतनये
न केषा-माधत्ते कुसुमशर कोदण्ड-कुतुकम् /
तिरश्चीनो यत्र श्रवणपथ-मुल्ल्ङ्य्य विलसन्
अपांग व्यासंगो दिशति शरसन्धान धिषणाम् // [५८]

स्फुरद्गण्डाभोग-प्रतिफलित ताट्ङ्क युगलं
चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् /
यमारुह्य द्रुह्य त्यवनिरथ मर्केन्दुचरणं
महावीरो मार: प्रमथपतये सज्जितवते // [५९]

सरस्वत्या: सूक्ती-रमृतलहरी कौशलहरी:
पिब्नत्या: शर्वाणि श्रवण-चुलुकाभ्या-मविरलम् /
चमत्कार:-श्लाघाचलित-शिरस: कुण्डलगणो
झणत्करैस्तारै: प्रतिवचन-माचष्ट इव ते // [६०]

असौ नासावंश-स्तुहिनगिरिवण्श-ध्वजपटि
त्वदीयो नेदीय: फलतु फल-मस्माकमुचितम् /
वहत्यन्तर्मुक्ता: शिशिरकर-निश्वास-गलितं
समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधर: // [६१]

प्रकृत्याऽऽरक्ताया-स्तव सुदति दन्दच्छदरुचे :
प्रवक्ष्ये सदृश्यं जनयतु फलं विद्रुमलता /
न बिंबं तद्बिंब-प्रतिफलन-रागा-दरुणितं
तुलामध्रारोढुं कथमिव विलज्जेत कलया // [६२]

स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां
चकोराणा-मासी-दतिरसतया चञ्चु-जडिमा /
अतस्ते शीतांशो-रमृतलहरी माम्लरुचय:
पिबन्ती स्वच्छन्दं निशि निशि भृशं काञ्जि कधिया // [६३]

अविश्रान्तं पत्युर्गुणगण कथाम्रेडनजपा
जपापुष्पच्छाया तव जननि जिह्वा जयति सा /
यदग्रासीनाया: स्फटिकदृष-दच्छच्छविमयि
सरस्वत्या मूर्ति: परिणमति माणिक्यवपुषा // [६४]

रणे जित्वा दैत्या नपहृत-शिरस्त्रै: कवचिभि:
निवृत्तै-श्चण्डांश-त्रिपुरहर-निर्माल्य-विमुखै: /
विशाखेन्द्रोपेन्द्रै: शशिविशद-कर्पूरशकला
विलीयन्ते मातस्तव वदनताम्बूल-कबला: // [६५]

विपञ्च्या गायन्ती विविध-मपदानं पशुपते-
स्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने /
तदीयै-र्माधुर्यै-रपलपित-तन्त्रीकलरवां
निजां वीणां वाणीं निचुलयति चोलेन निभृतम् // [६६]

करग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया
गिरिशेनो-दस्तं मुहुरधरपानाकुलतया /
करग्राह्यं शंभोर्मुखमुकुरवृन्तं गिरिसुते
कथंकरं ब्रूम-स्तव चुबुकमोपम्यरहितम् // [६७]

भुजाश्लेषान्नित्यं पुरदमयितु: कन्टकवती
तव ग्रीवा धत्ते मुखकमलनाल-श्रियमियम् /
स्वत: श्वेता काला गरु बहुल-जम्बालमलिना
मृणालीलालित्यं वहति यदधो हारलतिका // [६८]

गले रेखास्तिस्रो गति गमक गीतैक निपुणे
विवाह-व्यानद्ध-प्रगुणगुण-संख्या प्रतिभुव: /
विराजन्ते नानाविध-मधुर-रागाकर-भुवां
त्रयाणां ग्रामाणां स्थिति-नियम-सीमान इव ते // [६९]

मृणाली-मृद्वीनां तव भुजलतानां चतसृणां
चतुर्भि: सौन्द्रयं सरसिजभव: स्तौति वदनै: /
नखेभ्य: सन्त्रस्यन् प्रथम-मथना दन्तकरिपो:
चतुर्णां शीर्षाणां सम-मभयहस्तार्पण-धिया // [७०]

नखाना-मुद्योतै-र्नवनलिनरागं विहसतां
कराणां ते कान्तिं कथय कथयाम: कथमुमे /
कयाचिद्वा साम्यं भजतु कलया हन्त कमलं
यदि क्रीडल्लक्ष्मी-चरणतल-लाक्षारस-चणम् // [७१]

समं देवि स्कन्द द्विपिवदन पीतं स्तनयुगं
तवेदं न: खेदं हरतु सततं प्रस्नुत-मुखम् /
यदालोक्याशङ्काकुलित हृदयो हासजनक:
स्वकुम्भौ हेरंब: परिमृशति हस्तेन झडिति // [७२]

अमू ते वक्षोजा-वमृतरस-माणिक्य कुतुपौ
न सन्देहस्पन्दो नगपति पताके मनसि न: /
पिबन्तौ तौ यस्मा दविदित वधूसङ्ग रसिकौ
कुमारावद्यापि द्विरदवदन-क्रौञ्च्दलनौ // [७३]

वहत्यम्ब स्त्म्बेरम-दनुज-कुंभप्रकृतिभि:
समारब्धां मुक्तामणिभिरमलां हारलतिकाम् /
कुचाभोगो बिम्बाधर-रुचिभि-रन्त: शबलितां
प्रताप-व्यामिश्रां पुरदमयितु: कीर्तिमिव ते // [७४]

तव स्तन्यं मन्ये धरणिधरकन्ये हृदयत:
पय: पारावार: परिवहति सारस्वतमिव /
दयावत्या दत्तं द्रविडशिशु-रास्वाद्य तव यत्
कवीनां प्रौढाना मजनि कमनीय: कवयिता // [७५]

हरक्रोध-ज्वालावलिभि-रवलीढेन वपुषा
गभीरे ते नाभीसरसि कृतसङो मनसिज: /
समुत्तस्थौ तस्मा-दचलतनये धूमलतिका
जनस्तां जानीते तव जननि रोमावलिरिति // [७६]

यदेतत्कालिन्दी-तनुतर-तरङ्गाकृति शिवे
कृशे मध्ये किञ्चिज्जननि तव यद्भाति सुधियाम् /
विमर्दा-दन्योन्यं कुचकलशयो-रन्तरगतं
तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् // [७७]

स्थिरो गङ्गा वर्त: स्तनमुकुल-रोमावलि-लता
कलावालं कुण्डं कुसुमशर तेजो-हुतभुज: /
रते-र्लीलागारं किमपि तव नाभिर्गिरिसुते
बेलद्वारं सिद्धे-र्गिरिशनयनानां विजयते // [७८]

निसर्ग-क्षीणस्य स्तनतट-भरेण क्लमजुषो
नमन्मूर्ते र्नारीतिलक शनकै-स्त्रुट्यत इव /
चिरं ते मध्यस्य त्रुटित तटिनी-तीर-तरुणा
समावस्था-स्थेम्नो भवतु कुशलं शैलतनये // [७९]

कुचौ सद्य: स्विद्य-त्तटघटित-कूर्पासभिदुरौ
कषन्तौ-दौर्मूले कनककलशाभौ कलयता /
तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा
त्रिधा नद्ध्म् देवी त्रिवलि लवलीवल्लिभिरिव // [८०]

गुरुत्वं विस्तारं क्षितिधरपति: पार्वति निजात्
नितम्बा-दाच्छिद्य त्वयि हरण रूपेण निदधे /
अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं
नितम्ब-प्राग्भार: स्थगयति सघुत्वं नयति च // [८१]

करीन्द्राणां शुण्डान्-कनककदली-काण्डपटलीं
उभाभ्यामूरुभ्या-मुभयमपि निर्जित्य भवति /
सुवृत्ताभ्यां पत्यु: प्रणतिकठिनाभ्यां गिरिसुते
विधिज्ञे जानुभ्यां विबुध करिकुंभ द्वयमसि // [८२]

पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते
निषङ्गौ जङ्घे ते विषमविशिखो बाढ-मकृत /
यदग्रे दृस्यन्ते दशशरफला: पादयुगली
नखाग्रच्छन्मान: सुर मुकुट-शाणैक-निशिता: // [८३]

श्रुतीनां मूर्धानो दधति तव यौ शेखरतया
ममाप्येतौ मात: शेरसि दयया देहि चरणौ /
ययओ: पाद्यं पाथ: पशुपति जटाजूट तटिनी
ययो-र्लाक्षा-लक्ष्मी-ररुण हरिचूडामणि रुचि: // [८४]

नमो वाकं ब्रूमो नयन-रमणीयाय पदयो:
तवास्मै द्वन्द्वाय स्फुट-रुचि रसालक्तकवते /
असूयत्यत्यन्तं यदभिहननाय स्पृहयते
पशूना-मीशान: प्रमदवन-कङ्केलितरवे // [८५]

मृषा कृत्वा गोत्रस्खलन-मथ वैलक्ष्यनमितं
ललाटे भर्तारं चरणकमले ताडयति ते /
चिरादन्त: शल्यं दहनकृत मुन्मूलितवता
तुलाकोटिक्वाणै: किलिकिलित मीशान रिपुणा // [८६]

हिमानी हन्तव्यं हिमगिरिनिवासैक-चतुरौ
निशायां निद्राणं निशि-चरमभागे च विशदौ /
वरं लक्ष्मीपात्रं श्रिय-मतिसृहन्तो समयिनां
सरोजं त्वत्पादौ जननि जयत-श्चित्रमिह किम् // [८७]

पदं ते कीर्तीनां प्रपदमपदं देवि विपदां
कथं नीतं सद्भि: कठिन-कमठी-कर्पर-तुलाम् /
कथं वा बाहुभ्या-मुपयमनकाले पुरभिदा
यदादाय न्यस्तं दृषदि दयमानेन मनसा // [८८]

नखै-र्नाकस्त्रीणां करकमल-संकोच-शशिभि:
तरूणां दिव्यानां हसत इव ते चण्डि चरणौ /
फलानि स्व:स्थेभ्य: किसलय-कराग्रेण ददतां
दरिद्रेभ्यो भद्रां श्रियमनिश-मह्नाय ददतौ // [८९]

ददाने दीनेभ्य: श्रियमनिश-माशानुसदृशीं
अमन्दं सौन्दर्यं प्रकर-मकरन्दं विकिरति /
तवास्मिन् मन्दार-स्तबक-सुभगे यातु चरणे
निमज्जन् मज्जीव: करणचरण: ष्ट्चरणताम् // [९०]

पदन्यास-क्रीडा परिचय-मिवारब्धु-मनस:
स्खलन्तस्ते खेलं भवनकलहंसा न जहति /
अतस्तेषां शिक्षां सुभगमणि-मञ्जीर-रणित-
च्छलादाचक्षाणं चरणकमलं चारुचरिते // [९१]

गतास्ते मञ्चत्वं द्रुहिण हरि रुद्रेश्वर भृत:
शिव: स्वच्छ-च्छाया-घटित-कपट-प्रच्छदपट: /
त्वदीयानां भासां प्रतिफलन रागारुणतया
शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् // [९२]

अराला केशेषु प्रकृति सरला मन्दहसिते
शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे /
भृशं तन्वी मध्ये पृथु-रुरसिजारोह विषये
जगत्त्रतुं शंभो-र्जयति करुणा काचिदरुणा // [९३]

कलङ्क: कस्तूरी रजनिकर बिम्बं जलमयं
कलाभि: कर्पूरै-र्मरकतकरण्डं निबिडितम् /
अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं
विधि-र्भूयो भूयो निबिडयति नूनं तव कृते // [९४]

पुरारन्ते-रन्त: पुरमसि तत-स्त्वचरणयो:
सपर्या-मर्यादा तरलकरणाना-मसुलभा /
तथा ह्येते नीता: शतमखमुखा: सिद्धिमतुलां
तव द्वारोपान्त: स्थितिभि-रणिमाद्याभि-रमरा: // [९५]

कलत्रं वैधात्रं कतिकति भजन्ते न कवय:
श्रियो देव्या: को वा न भवति पति: कैरपि धनै: /
महादेवं हित्वा तव सति सतीना-मचरमे
कुचभ्या-मासङ्ग: कुरवक-तरो-रप्यसुलभ: // [९६]

गिरामाहु-र्देवीं द्रुहिणगृहिणी-मागमविदो
हरे: पत्नीं पद्मां हरसहचरी-मद्रितनयाम् /
तुरीया कापि त्वं दुरधिगम-निस्सीम-महिमा
महामाया विश्वं भ्रमयसि परब्रह्ममहिषि // [९७]

कदा काले मात: कथय कलितालक्तकरसं
पिबेयं विद्यार्थी तव चरण-निर्णेजनजलम् /
प्रकृत्या मूकानामपि च कविता०कारणतया
कदा धत्ते वाणीमुखकमल-ताम्बूल-रसताम् // [९८]

सरस्वत्या लक्ष्म्या विधि हरि सपत्नो विहरते
रते: पतिव्रत्यं शिथिलपति रम्येण वपुषा /
चिरं जीवन्नेव क्षपित-पशुपाश-व्यतिकर:
परानन्दाभिख्यं रसयति रसं त्वद्भजनवान् // [९९]

प्रदीप ज्वालाभि-र्दिवसकर-नीराजनविधि:
सुधासूते-श्चन्द्रोपल-जललवै-रघ्यरचना /
स्वकीयैरम्भोभि: सलिल-निधि-सौहित्यकरणं
त्वदीयाभि-र्वाग्भि-स्तव जननि वाचां स्तुतिरियम् // [१००]

सौन्दयलहरि मुख्यस्तोत्रं संवार्तदायकम् /
भगवद्पाद सन्क्लुप्तं पठेन् मुक्तौ भवेन्नर: //
सौन्दर्यलहरि स्तोत्रं संपूर्णं

0 Comments:

Post a Comment

<< Home